अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ३.१३.७ ॥ atha yadataḥ paro divo jyotirdīpyate viśvataḥ …
Chandogya Upanishad 3.13.6
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य …
Chandogya Upanishad 3.13.5
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ३.१३.५ ॥ atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ sa ākāśastadetadojaśca …
Chandogya Upanishad 3.13.4
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३.१३.४ ॥ atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ sa parjanyastadetatkīrtiśca …
Chandogya Upanishad 3.13.3
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३.१३.३ ॥ atha yo'sya pratyaṅsuṣiḥ so'pānaḥ sā …
Chandogya Upanishad 3.13.2
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ ३.१३.२ ॥ atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotraṃ sa …