तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ३.१६.६ ॥ taṃ cedetasminvayasi …
Chandogya Upanishad 3.16.5
अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदंसर्वमाददते ॥ ३.१६.५ ॥ atha yānyaṣṭācatvāriṃśadvarṣāṇi …
Chandogya Upanishad 3.16.4
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यंदिनंसवनं तृतीयसवनमनुसंतनुतेति माहं प्राणानांरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ३.१६.४ ॥ taṃ …
Chandogya Upanishad 3.16.3
अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यंदिनं सवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यंदिनंसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदंसर्वंरोदयन्ति ॥ ३.१६.३ ॥ atha yāni …
Chandogya Upanishad 3.16.2
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनंसवनमनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ३.१६.२ ॥ taṃ …
Chandogya Upanishad 3.16.1
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातःसवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदंसर्वं वासयन्ति ॥ ३.१६.१ ॥ puruṣo vāva …