लोकेषु पञ्चविधं सामोपासीत पृथिवी हिंकारः । अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्ध्वेषु ॥ २.२.१ ॥ lokeṣu pañcavidhaṃ sāmopāsīta pṛthivī hiṃkāraḥ | agniḥ …
Chandogya Upanishad 5.1.15
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ ५.१.१५ ॥॥ इति प्रथमः खण्डः ॥ na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsītyācakṣate …
Chandogya Upanishad 5.1.14
अथ हैनंश्रोत्रमुवाच यदहं सम्पदस्मि त्वं तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ॥ ५.१.१४ ॥ atha hainaṃśrotramuvāca yadahaṃ sampadasmi tvaṃ tatsampadasītyatha hainaṃ mana uvāca …
Chandogya Upanishad 5.1.13
अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५.१.१३ ॥ atha hainaṃ vāguvāca yadahaṃ vasiṣṭho'smi tvaṃ tadvasiṣṭho'sītyatha …
Chandogya Upanishad 5.1.12
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ ५.१.१२ ॥ atha ha prāṇa uccikramiṣansa yathā suhayaḥ …
Chandogya Upanishad 5.1.11
मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५.१.११ ॥ mano …